Skip to content
Source
Bala Kanda Sarga 3 38 Shlokas

Sarga 3

Sarga 3 from Bala Kanda of the Valmiki Ramayana.

Shloka 1 →
श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमत: ।।1.3.1।।

Original text view. Choose a source above to add translations.

Shloka 2 →
उपस्पृश्योदकं सम्यग्मुनिस्स्थित्वा कृताञ्जलि: । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।।1.3.2।।

Original text view. Choose a source above to add translations.

Shloka 3 →
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वत: ।।1.3.3।। हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति ।।1.3.4।।

Original text view. Choose a source above to add translations.

Shloka 4 →

Shloka 5 →
स्त्रीतृतीयेन च तदा यत्प्राप्तं चरता वने । सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।।1.3.5।।

Original text view. Choose a source above to add translations.

Shloka 6 →
तत: पश्यति धर्मात्मा तत्सर्वं योगमास्थित: । पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।।1.3.6।।

Original text view. Choose a source above to add translations.

Shloka 7 →
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युति: । अभिरामस्य रामस्य चरितं कर्तुमुद्यत: ।।1.3.7।। कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।।1.3.8।।

Original text view. Choose a source above to add translations.

Shloka 8 →

Shloka 9 →
स यथा कथितं पूर्वं नारदेन महर्षिणा । रघुवंशस्य चरितं चकार भगवानृषिः ।।1.3.9।।

Original text view. Choose a source above to add translations.

Shloka 10 →
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।।1.3.10।।

Original text view. Choose a source above to add translations.

Shloka 11 →
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।।1.3.11।।

Original text view. Choose a source above to add translations.

Shloka 12 →
रामरामविवादं च गुणान्दाशरथेस्तथा । तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।।1.3.12।।

Original text view. Choose a source above to add translations.

Shloka 13 →
विघातं चाभिषेकस्य राघवस्य विवासनम् । राज्ञश्शोकविलापं च परलोकस्य चाश्रयम् ।।1.3.13।।

Original text view. Choose a source above to add translations.

Shloka 14 →
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ।।1.3.14।।

Original text view. Choose a source above to add translations.

Shloka 15 →
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।।1.3.15।।

Original text view. Choose a source above to add translations.

Shloka 16 →
वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।।1.3.16।।

Original text view. Choose a source above to add translations.

Shloka 17 →
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ।।1.3.17।।

Original text view. Choose a source above to add translations.

Shloka 18 →
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् । अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।।1.3.18।।

Original text view. Choose a source above to add translations.

Shloka 19 →
अगस्त्यदर्शनं चैव जटायोरभिसङ्गमम् । पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ।।1.3.19।।

Original text view. Choose a source above to add translations.

Shloka 20 →
शूर्पणख्याश्च संवादं विरूपकरणं तथा । वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।।1.3.20।।

Original text view. Choose a source above to add translations.

Shloka 21 →
मारीचस्य वधं चैव वैदेह्या हरणं तथा । राघवस्य विलापं च गृध्रराजनिबर्हणम् ।।1.3.21।।

Original text view. Choose a source above to add translations.

Shloka 22 →
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् । शबर्या: दर्शनं चैव हनूमद्दर्शनं तथा ।।1.3.22।।

Original text view. Choose a source above to add translations.

Shloka 23 →
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।।1.3.23।।

Original text view. Choose a source above to add translations.

Shloka 24 →
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ।।1.3.24।।

Original text view. Choose a source above to add translations.

Shloka 25 →
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् । दिश: प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।।1.3.25।।

Original text view. Choose a source above to add translations.

Shloka 26 →
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम् ।।1.3.26।।

Original text view. Choose a source above to add translations.

Shloka 27 →
पर्वतारोहणं चापि सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।।1.3.27।।

Original text view. Choose a source above to add translations.

Shloka 28 →
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् । रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् ।।1.3.28।।

Original text view. Choose a source above to add translations.

Shloka 29 →
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । आपानभूमिगमनमवरोधस्य दर्शनम्।।1.3.29।।

Original text view. Choose a source above to add translations.

Shloka 30 →
अशोकवनिकायानं सीतायाश्चपि दर्शनम् । अभिज्ञानप्रदानं च रावणस्य च दर्शनम् ।।1.3.30।।

Original text view. Choose a source above to add translations.

Shloka 31 →
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् । मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।।1.3.31।।

Original text view. Choose a source above to add translations.

Shloka 32 →
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् । ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।।1.3.32।।

Original text view. Choose a source above to add translations.

Shloka 33 →
प्रतिप्लवनमेवाथ मधूनां हरणं तथा । राघवाश्वासनं चापि मणिनिर्यातनं तथा ।।1.3.33।।

Original text view. Choose a source above to add translations.

Shloka 34 →
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् । प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।।1.3.34।।

Original text view. Choose a source above to add translations.

Shloka 35 →
विभीषणेन संसर्गं वधोपायनिवेदनम् । कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।।1.3.35।।

Original text view. Choose a source above to add translations.

Shloka 36 →
रावणस्य विनाशं च सीतावाप्तिमरे: पुरे । विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।।1.3.36।।

Original text view. Choose a source above to add translations.

Shloka 37 →
अयोध्यायाश्च गमनं भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्।।1.3.37।।

Original text view. Choose a source above to add translations.

Shloka 38 →
अनागतं च यत्किञ्चिद्रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषि: ।।1.3.38।।