Skip to content
Source
Kishkindha Kanda Sarga 37 37 Shlokas

Sarga 37

Sarga 37 from Kishkindha Kanda of the Valmiki Ramayana.

Shloka 1 →
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे सचिवन्त्विदमब्रवीत्।।4.37.1।।

Original text view. Choose a source above to add translations.

Shloka 2 →
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च। मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः।।4.37.2।। तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः। पर्वतेषु समुद्रान्ते पश्चिमायां च ये दिशि।।4.37.3।। आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे। पद्मातालवनं भीमं संश्रिता हरिपुङ्गवाः।।4.37.4।। अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः। अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः।।4.37.5।। मनश्शिला गुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये धूम्रगिरिं संश्रिताः।।4.37.6।। तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधुमैरेयं भीमवेगाः प्लवङ्गमाः।।4.37.7।। वनेषु च सुरम्येषु सुगन्धिषु महत्सु च। तापसानां च रम्येषु वनान्तेषु समन्ततः।।4.37.8।। तांस्तां स्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्। सामदानादिभि: स्सर्वैराशु प्रेषय वानरान्।।4.37.9।।

Original text view. Choose a source above to add translations.

Shloka 3 →

Shloka 4 →

Shloka 5 →

Shloka 6 →

Shloka 7 →

Shloka 8 →

Shloka 9 →

Shloka 10 →
प्रेषिताः प्रथमं ये च मयादूता महाजवाः। त्वरणार्थं तु भूयस्त्वं हरीन् सम्प्रेषयापरान्।।4.37.10।।

Original text view. Choose a source above to add translations.

Shloka 11 →
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः। इहाऽनयस्व तान् सर्वान् शीघ्रं तु मम शासनात्।।4.37.11।।

Original text view. Choose a source above to add translations.

Shloka 12 →
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया। हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः।।4.37.12।।

Original text view. Choose a source above to add translations.

Shloka 13 →
शतान्यथ सहस्राणां कोट्यश्च मम शासनात्। प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः।।4.37.13।।

Original text view. Choose a source above to add translations.

Shloka 14 →
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम्। घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः।।4.37.14।।

Original text view. Choose a source above to add translations.

Shloka 15 →
ते गतिज्ञा गतिं ज्ञात्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन् सर्वांस्त्वरिता शसनान्मम।।4.37.15।।

Original text view. Choose a source above to add translations.

Shloka 16 →
तस्य वानर राजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान्।।4.37.16।।

Original text view. Choose a source above to add translations.

Shloka 17 →
ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै।।4.37.17।।

Original text view. Choose a source above to add translations.

Shloka 18 →
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च। वानरा वानरान्सर्वान्रामहेतोरचोदयन्।।4.37.18।।

Original text view. Choose a source above to add translations.

Shloka 19 →
मृत्युकालोपमस्याऽज्ञां राजराजस्य वानराः। सुग्रीवस्याययु श्श्रुत्वा सुग्रीवभयदर्शिनः।।4.37.19।।

Original text view. Choose a source above to add translations.

Shloka 20 →
ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः। तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः।।4.37.20।।

Original text view. Choose a source above to add translations.

Shloka 21 →
अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः। सन्तप्त हेममहाभासस्तस्मात्कोट्यो दश च्युताः।।4.37.21।।

Original text view. Choose a source above to add translations.

Shloka 22 →
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्। ततः कोटिसहस्राणि वानराणामुपागमन्।।4.37.22।।

Original text view. Choose a source above to add translations.

Shloka 23 →
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत।।4.37.23।।

Original text view. Choose a source above to add translations.

Shloka 24 →
अङ्गारकसमानानां भीमानां भीमकर्मणाम्। विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम्।।4.37.24।।

Original text view. Choose a source above to add translations.

Shloka 25 →
क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते।।4.37.25।।

Original text view. Choose a source above to add translations.

Shloka 26 →
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा। आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्।।4.37.26।।

Original text view. Choose a source above to add translations.

Shloka 27 →
ये तु त्वरयितुं याता वानरास्सर्ववानरान्। ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्।।4.37.27।।

Original text view. Choose a source above to add translations.

Shloka 28 →
तस्मिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा। सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः।।4.37.28।।

Original text view. Choose a source above to add translations.

Shloka 29 →
अन्ननिष्यन्दजातानि मूलानि च फलानि च। अमृतास्वादकल्पानि ददृशुस्तत्र वानराः।।4.37.29।।

Original text view. Choose a source above to add translations.

Shloka 30 →
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम्। यः कश्चित्सकृदश्नाति मासं भवति तर्पितः।।4.37.30।।

Original text view. Choose a source above to add translations.

Shloka 31 →
तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरियूथपाः।।4.37.31।।

Original text view. Choose a source above to add translations.

Shloka 32 →
तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च। आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्।।4.37.32।।

Original text view. Choose a source above to add translations.

Shloka 33 →
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः।।4.37.33।।

Original text view. Choose a source above to add translations.

Shloka 34 →
ते तु तेन मुहूर्तेन यूथपाश्शीघ्रगामिनः। किष्किन्धां त्वरया प्राप्ता स्सुग्रीवो यत्र वानरः।।4.37.34।।

Original text view. Choose a source above to add translations.

Shloka 35 →
ते गृहीत्वौषधीस्सर्वाः फलमूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्।।4.37.35।।

Original text view. Choose a source above to add translations.

Shloka 36 →
सर्वे परिगताश्शैलास्समुद्राश्च वनानि च। पृथिव्यां वानरास्सर्वे शासनादुपयान्ति ते।।4.37.36।।

Original text view. Choose a source above to add translations.

Shloka 37 →
एवं श्रुत्वा ततो हृष्ट स्सुग्रीवः प्लवगाधिपः। प्रतिजग्राह तत्प्रतीतस्तेषां सर्वमुपायनम्।।4.37.37।।