Skip to content
Source
Kishkindha Kanda Sarga 65 34 Shlokas

Sarga 65

Sarga 65 from Kishkindha Kanda of the Valmiki Ramayana.

Shloka 1 →
अथाङ्गदवचश्श्रुत्वा ते सर्वे वानरर्षभाः। स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्।।4.65.1।। गजो गवाक्षो गवयश्शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवां स्तथा।।4.65.2।।

Original text view. Choose a source above to add translations.

Shloka 2 →

Shloka 3 →
आबभाषे गजस्तत्र प्लवेयं दशयोजनम्। गवाक्षो योजननान्याह गमिष्यामीति विंशतिम्।।4.65.3।।

Original text view. Choose a source above to add translations.

Shloka 4 →
गवयो वानरस्तत्र वानरां स्तानुवाच ह। त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.4।। शरभस्तानुवाचाथ वानरान् वानरर्षभः। चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.5।। वानरस्तु महातेजा अब्रवीद्गन्धमादनः। योजनानां गमिष्यामि पञ्चाशत्तु न संशयः।।4.65.6।। मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह। योजनानां परं षष्टिमहं प्लवितुमुत्सहे।।4.65.7।। ततस्तत्र महातेजा द्विविदः प्रत्यभाषत। गमिष्यामि न सन्देहस्सप्ततिं योजनान्यहम्।।4.65.8।। सुषेणस्तु महातेजा:प्रोक्तवान्हरिसत्तमान्। अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः।।4.65.9।।

Original text view. Choose a source above to add translations.

Shloka 5 →

Shloka 6 →

Shloka 7 →

Shloka 8 →

Shloka 9 →

Shloka 10 →
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च। ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत।।4.65.10।।

Original text view. Choose a source above to add translations.

Shloka 11 →
पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः। ते वयं वयसः पारमनुप्राप्तास्स्म साम्प्रतम्।।4.65.11।।

Original text view. Choose a source above to add translations.

Shloka 12 →
किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्। यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ।।4.65.12।।

Original text view. Choose a source above to add translations.

Shloka 13 →
साम्प्रतं कालभेदेन या गतिस्तां निबोधत। नवतिं योजनानां तु गमिष्यामि न संशयः।।4.65.13।।

Original text view. Choose a source above to add translations.

Shloka 14 →
तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत्। न खल्वेतावदेवासीद्गमने मे पराक्रमः।।4.65.14।।

Original text view. Choose a source above to add translations.

Shloka 15 →
मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः। प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्।।4.65.15।।

Original text view. Choose a source above to add translations.

Shloka 16 →
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः। यौवने च तदाऽसीन्मे बलमप्रतिमं परैः।।4.65.16।।

Original text view. Choose a source above to add translations.

Shloka 17 →
सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्। नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति।।4.65.17।।

Original text view. Choose a source above to add translations.

Shloka 18 →
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा। अनुमान्य तथा प्राज्ञो जाम्बवन्तं महाकपिम्।।4.65.18।।

Original text view. Choose a source above to add translations.

Shloka 19 →
अहमेतद्गमिष्यामि योजनानां शतं महत्। निवर्तने तु मे शक्तिस्स्यान्न वेति न निश्चितम्।।4.65.19।।

Original text view. Choose a source above to add translations.

Shloka 20 →
तमुवाच हरिश्रेष्ठं जाम्बवान्वाक्यकोविदः। ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम।।4.65.20।।

Original text view. Choose a source above to add translations.

Shloka 21 →
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते। योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्।।4.65.21।।

Original text view. Choose a source above to add translations.

Shloka 22 →
न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन। भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम।।4.65.22।।

Original text view. Choose a source above to add translations.

Shloka 23 →
भवान्कळत्रमस्माकं स्वामिभावे व्यवस्थितः। स्वामी कळत्रं सैन्यस्य गतिरेषा परन्तप।।4.65.23।।

Original text view. Choose a source above to add translations.

Shloka 24 →
अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम। तस्मात्कळत्रवत्तात प्रतिपाल्यस्सदा भवान्।।4.65.24।।

Original text view. Choose a source above to add translations.

Shloka 25 →
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः। मूले सति हि सिद्ध्यन्ति गुणा फलो पुष्पोदयाः।।4.65.25।।

Original text view. Choose a source above to add translations.

Shloka 26 →
तद्भवानस्य कार्यस्य साधने सत्यविक्रम। बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप।।4.65.26।।

Original text view. Choose a source above to add translations.

Shloka 27 →
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम। भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने।।4.65.27।।

Original text view. Choose a source above to add translations.

Shloka 28 →
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः। प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः।।4.65.28।।

Original text view. Choose a source above to add translations.

Shloka 29 →
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः। पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्।।4.65.29।।

Original text view. Choose a source above to add translations.

Shloka 30 →
न ह्यकृत्वा हरिपतेस्सन्देशं तस्य धीमतः। तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्।।4.65.30।।

Original text view. Choose a source above to add translations.

Shloka 31 →
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः। अतीत्य तस्य सन्देशं विनाशो गमने भवेत्।।4.65.31।।

Original text view. Choose a source above to add translations.

Shloka 32 →
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः। तद्भवानेव दृष्टार्थस्सञ्चिन्तयितु मर्हति।।4.65.32।।

Original text view. Choose a source above to add translations.

Shloka 33 →
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः। जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम्।।4.65.33।।

Original text view. Choose a source above to add translations.

Shloka 34 →
अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते। एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति।।4.65.34।।