Sundara Kanda
Sarga 2
58 Shlokas
Sarga 2
Sarga 2 from Sundara Kanda of the Valmiki Ramayana.
स सागरमनादृष्यमतिक्रम्य महाबलः। त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह।।5.2.1।।
Original text view. Choose a source above to add translations.
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा।।5.2.2।।
Original text view. Choose a source above to add translations.
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति।।5.2.3।।
Original text view. Choose a source above to add translations.
शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्।।5.2.4।।
Original text view. Choose a source above to add translations.
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम्।।5.2.5।।
Original text view. Choose a source above to add translations.
शाद्वलानि च नीलानि गन्धवन्ति वनानि च। गण्डवन्ति च मध्येन जगाम नगवन्ति च।।5.2.6।।
Original text view. Choose a source above to add translations.
शैलांश्च तरुसंछन्नान् वनाराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः।।5.2.7।।
Original text view. Choose a source above to add translations.
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च। स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः।।5.2.8।।
Original text view. Choose a source above to add translations.
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालून्मुचुलिन्दांश्च कुटजान् केतकानपि।।5.2.9।। प्रियंङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। आसनान् कोविदारांश्च करवीरांश्च पुष्पितान्।।5.2.10।। पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्।।5.2.11।। हंसकारण्डवाकीर्णा वापीः पद्मोत्मलायुताः। आक्रीडान् विविधान् रम्यावन् विविधांश्च जलाशयान्।।5.2.12।। सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः।।5.2.13।।

समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम्।।5.2.14।। सीतापहरणार्थेन रावणेन सुरक्षिताम्। समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः।।5.2.15।। काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः।।5.2.16।। पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णां पताकाध्वजमालिनीम्।।5.2.17।। तोरणैः काञ्चनैर्दिव्यैर्लतापङ्त्किविचित्रितैः। ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा।।5.2.18।।

गिरिमूर्ध्निं स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा।।5.2.19।।
Original text view. Choose a source above to add translations.
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानमिवाकाशे ददर्श हनुमान् पुरीम्।।5.2.20।।
Original text view. Choose a source above to add translations.
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्।।5.2.21।। मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः।।5.2.22।।

कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम्। डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः।।5.2.23।। सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा।।5.2.24।। दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टसपाणिभिः। रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव।।5.2.25।। तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः।।5.2.26।।

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि।।5.2.27।।
Original text view. Choose a source above to add translations.
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्। प्राप्यापि स महाबाहुः किं करिष्यति राघवः।।5.2.28।।
Original text view. Choose a source above to add translations.
अवकाशो नसान्त्वस्य राक्षसेष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते।।5.2.29।।
Original text view. Choose a source above to add translations.
चतुर्णामेव हि गतिर्वानराणां महात्मनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः।।5.2.30।।
Original text view. Choose a source above to add translations.
यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्।।5.2.31।।
Original text view. Choose a source above to add translations.
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः।।5.2.32।।
Original text view. Choose a source above to add translations.
अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः।।5.2.33।।
Original text view. Choose a source above to add translations.
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता।।5.2.34।।
Original text view. Choose a source above to add translations.
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया। प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्।।5.2.35।।
Original text view. Choose a source above to add translations.
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः।।5.2.36।।
Original text view. Choose a source above to add translations.
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना।।5.2.37।।
Original text view. Choose a source above to add translations.
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः। एकामेकश्च वश्येयं रहिते जनकात्मजाम्।।5.2.38।।
Original text view. Choose a source above to add translations.
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः। विक्लबं दूतमासाद्य तमः सूर्योदये यथा।।5.2.39।।
Original text view. Choose a source above to add translations.
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।।5.2.40।।
Original text view. Choose a source above to add translations.
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।।5.2.41।।
Original text view. Choose a source above to add translations.
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः।।5.2.42।।
Original text view. Choose a source above to add translations.
न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्।।5.2.43।।
Original text view. Choose a source above to add translations.
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। न ह्य स्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम्।।5.2.44।।
Original text view. Choose a source above to add translations.
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हीयते।।5.2.45।।
Original text view. Choose a source above to add translations.
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये।।5.2.46।।
Original text view. Choose a source above to add translations.
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्।।5.2.47।।
Original text view. Choose a source above to add translations.
इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः।।5.2.48।।
Original text view. Choose a source above to add translations.
सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः। पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः।।5.2.49।।
Original text view. Choose a source above to add translations.
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान्। प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम्।।5.2.50।।
Original text view. Choose a source above to add translations.
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः। शातकुम्भमयैर्जालैर्गन्थर्वनगरोपमाम्।।5.2.51।। सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः।।5.2.52।।

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः। तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्।।5.2.53।।
Original text view. Choose a source above to add translations.
काञ्चनानि च चित्राणि तोरणानि च रक्षसाम्। लङ्कामुद्योतयामासुः सर्वतः समलङ्कृताम्।।5.2.54।।
Original text view. Choose a source above to add translations.
अचिन्त्यामद्भुताकारां दृष्टवा लङ्कां महाकपिः। आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः।।5.2.55।।
Original text view. Choose a source above to add translations.
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्। यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम्।।5.2.56।।
Original text view. Choose a source above to add translations.
चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मि:।।5.2.57।।
Original text view. Choose a source above to add translations.
शङ्खप्रभं क्षीरमृणालवर्ण मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम्।।5.2.58।।