Sundara Kanda
Sarga 6
42 Shlokas
Sarga 6
Sarga 6 from Sundara Kanda of the Valmiki Ramayana.
स निकामं विमानेषु निषण्णः कामरूपधृत्। विचचार पुनर्लङ्कां लाघवेन समन्वितः।।5.6.1।।
Original text view. Choose a source above to add translations.
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसम्वृतम्।।5.6.2।।
Original text view. Choose a source above to add translations.
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम्। समीक्षमाणो भवनं चकाशे कपिकुञ्जरः।।5.6.3।।
Original text view. Choose a source above to add translations.
रूप्यकोपहितै श्चित्रैस्तोरणैर्हेमभूषितैः। विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्।।5.6.4।।
Original text view. Choose a source above to add translations.
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थितमसंहार्यैः र्हयैः स्यन्दनयायिभिः।।5.6.5।।
Original text view. Choose a source above to add translations.
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः।।5.6.6।।
Original text view. Choose a source above to add translations.
बहुरत्नसमाकीर्णं परार्थ्यसनभाजनम्। महारथसमावासं महारथमहास्वनम्।।5.6.7।।
Original text view. Choose a source above to add translations.
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधै र्बहुसाहस्रैः परिपूर्णं समन्ततः।।5.6.8।।
Original text view. Choose a source above to add translations.
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः।।5.6.9।।
Original text view. Choose a source above to add translations.
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्। वराभरणसंह्रादैः समुद्रस्वनन्निस्वनम्।।5.6.10।।
Original text view. Choose a source above to add translations.
तद्राजगुणसम्पन्नं मुख्यैश्चागुरुचन्दनैः। महाजनैः समाकीर्णां सिंहैरिव महद्वनम्।।5.6.11।।
Original text view. Choose a source above to add translations.
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम्। नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा।।5.6.12।।
Original text view. Choose a source above to add translations.
समुद्रमिव गम्भीरं समुद्रमिव निस्स्वनम्। महात्मनो महाद्वेश्म महारत्नपरिच्छदम्।।5.6.13।। महारत्नसमाकीर्णं ददर्श स महाकपिः।
Original text view. Choose a source above to add translations.
विराजमानं वपुषा गजाश्वरथसङ्कुलम्।।5.6.14।। लङ्काभरणमित्येव सोऽमन्यत महाकपिः। चचार हनुमांस्तत्र रावणस्य समीपतः।।5.6.15।।

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणोऽह्यसंत्रस्तः प्रासादांश्च चचार सः।।5.6.16।।
Original text view. Choose a source above to add translations.
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।।5.6.17।।
Original text view. Choose a source above to add translations.
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्। विभीषणस्य च तदा पुप्लुवे स महाकपिः।।5.6.18।।
Original text view. Choose a source above to add translations.
महोदरस्य च गृहं विरूपाक्षस्य चैव हि। विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च।।5.6.19।। वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
Original text view. Choose a source above to add translations.
शुकस्य च महातेजाः सारणस्य च धीमतः।।5.6.20।। तथा चेन्द्रजितो वेश्म जगाम हरियूथपः।
Original text view. Choose a source above to add translations.
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः।।5.6.21।। रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च। वज्रकायस्य च तथा पुप्लुवे स महाकपिः।।5.6.22।।

धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः। विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च।।5.6.23।। शुकनासस्य वक्रस्य शठस्य विकटस्य च। ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः।।5.6.24।। युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः। विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च।।5.6.25।। कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।

भवनम् क्रममाणः णोऽसौ हनुमान्मारुतात्मजः।।5.6.26।। तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः।।5.6.27।।

सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान् राक्षसेद्रनिवेशनम्।।5.6.28।।
Original text view. Choose a source above to add translations.
रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः।।5.6.29।। शूलमुद्गरहस्ताश्च शक्तितोमरधारिणी:।
Original text view. Choose a source above to add translations.
ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे।।5.6.30।। राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान्।
Original text view. Choose a source above to add translations.
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान्।।5.6.31।। कुलीनान् रूपसम्पन्नान् गजान्परगजारुजान्। निष्ठितान् गजशिक्षयामैरावतसमान्युधि।।5.6.32।। निहन्त्रून् परसैन्यानां गृहे तस्मिन् ददर्श सः। क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्।।5.6.33।। मेघसन्ततिनिर्घोषान् दुर्धर्षान् समरे परैः।

सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः।।5.6.34।। हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।।5.6.35।।

शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च।।5.6.36।। क्रीडागृहाणि चान्यानि दारुपर्वतकानपि। कामस्य गृहकं रम्यं दिवागृहकमेव च।।5.6.37।। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।

स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम्।।5.6.38।। ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्। अनेकरत्नसङ्कीर्णं निधिजालं समन्ततः।।5.6.39।। धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव।

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।।5.6.40।। विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः।
Original text view. Choose a source above to add translations.
जाम्बूनदमयान्येन शयनान्यासनानि च।।5.6.41।। भाजनानि च मुख्यानि ददर्श हरियूथपः।
Original text view. Choose a source above to add translations.
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम्।।5.6.42।। मनोरममसंबाधं कुबेरभवनं यथा। नूपुराणां च घोषेण काञ्चीनां निनदेन च।।5.6.43।। मृदङ्तलघोषैश्च घोषवद्भिर्विनादितम्। प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम्।।5.6.44। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहाम्।